क्षेत्रक्षेत्रज्ञविभाग योग. अध्याय 13

 https://drive.google.com/file/d/1sq9OsjZAZohJaU3-SaJ-qnDFzVRORy8i/view?usp=drivesdk

For Audio open the above link

----------------------------------**----


क्षेत्रक्षेत्रज्ञविभागयोग 

 (क्षेत्-रक्-क्षेत्-रद्-ज्ञ विभागयोग)


    

 ॐ श्री परमात्मने नमः

  श्रीमद्भगवद्गीता

      अथत् -त्रयोदशोऽध्याय :


   श्रीभगवानुवाच

इदम्  शरीरङ्  कौन्तेयक् ,

     क्षेत्-त्रमित्-त्यभिधीयते  l

एतद्-द्यो वेत्ति तम् प्राहुख् ,

   क्षेत्-त्रद्-ज्ञ इति तद्-द्विदः ll 1 ll


क्षेत्-त्रद्- ज्ञञ्  चापि माव्ँ विद्-द्धि ,

सर्वक्-क्षेत्-त्रेषु  भारत  l

क्षेत्-त्रक्-क्षेत्-त्र-द् _ ज्ञयोर् _ ज्ञानय्ँ ,

यत्तज् _ज्ञानम् मतम् मम   ll 2 ll



तत्क्षेत्-त्रय्ँ यच्च  यादृक्-च ,

 यद्-द्विकारि यतश्-श्च  यत् l

स च यो यत् _प्रभावश्-श्च ,

     तत्-समासेन  मे शृणु   ll 3 ll


ऋषिभिर् _बहुधा गीतञ् , 

छन्-दोभिर् _ विविधैफ्   पृथक् ।

ब्रह्मसूत्-त्र _पदैश्- श्चैव, 

हेतुमद्-भिर् _विनिश्-श्चितैः॥ 4 ॥


महाभूतान्- न्यहङ्-कारो, 

बुद्धिरव्-व्यक्-तमेव च ।

इन्द्रियाणि दशैकञ्  च , 

पञ्-च चेन्द्रिय _गोचराः ll 5 ॥



इच्-च्छाद्-द्वेषस्  सुखन्  दुःखम् , 

सङ्- घातश्- चेतना धृतिः।

एतत् _क्षेत्- त्रम्  समासेन , 

सविकार _मुदाहृतम् ॥ 6 ॥


अमानित्-त्व _मदम्-भित्-त्वम्

अहिव्ँसाक्- क्षान्-ति _रार्जवम्।

 आचार्यो _पासनम्    शौचम् , 

स्थैर्यमात्-त्म _विनिग्-ग्रहः॥ 7 ॥


इन्द्रियार्थेषु वैराग्- ग्यम्, 

अनहङ्- कार एव च ।

जन्-म _मृत्-त्यु जराव्-व्याधि, 

दुःखदोषानुदर्शनम् ॥ 8 ॥


असक्-तिर _नभिष्-ष्वङ्गफ् , 

पुत्-त्रदार _ गृहादिषु ।

नित्-त्यञ् च समचित्तत्-त्वम् , 

इष्-ष्टानिष्-ष्टोप _पत्तिषु    ॥ 9 ॥


मयि चानन्-न्य योगेन, 

भक्तिरव्-व्यभिचारिणी  ।

विविक्-क्त _देश _सेवित्-त्वम्

अरतिर्जन _सव्ँसदि ॥ 10 ॥



अद्-ध्यात्-त्मद्-ज्ञाननित्-त्यत्-त्वम् ,

तत्वद्- ज्ञानार्थ _दर्शनम् l

एतज्- ज्ञानमितिप्- प्रोक्तम् ,

अद्ज्ञानय्ँ  यदतोऽन्- न्यथा ll 11 ll


ज्ञेयय्ँ यत्तत् _प्रवक्ष्यामि ,

यज्- ज्ञात्-त्वा_मृतमश्- श्नुते।

 अनादिमत्- परम् ब्रह्म , 

न सत्तन् _नासदुच्- यते॥ 12 ॥



सर्वतफ्  पाणिपादन्  तत्, 

सर्वतोऽक्- क्षिशिरोमुखम् l

 सर्वतश्- श्रुतिमल् _लोके, 

सर्वमा_वृत्-त्य तिष्-ष्ठति ll 13 ll


सर्वेन्द्रिय गुणाभासम्, 

 सर्वेन्द्रिय _विवर्जितम्।

असक्-क्तम् सर्वभृच्चैव  , 

निर्गुणङ्    गुणभोक्-तृ च ॥ 14 ॥


बहिरन्- तश्- श्च भूतानाम्,

अचरञ् चरमेव च।

सूक्ष्मत्- त्वात् _तदविद्-ज्ञेयन् ,

 दूरस्-स्थञ् चान्-तिके च तत् ॥15॥


अविभक्-क्तञ्   च भूतेषु

 विभक्-त _मिव चस्- स्थितम्  ।

भूतभर्तृ च  तज् _ज्ञेयङ् , 

ग्रसिष्-ष्णुप्-प्रभविष्-ष्णु च ॥16॥



ज्योतिषामपि  तज् _ज्योतिस्  ,

 तमसफ्   परमुच्- यते  ।

ज्ञानञ्  ज्ञेयञ्  ज्ञानगम्-यम् , 

हृदि सर्वस्-य विष्-ष्ठितम्  ॥ 17 ॥


इतिक्- क्षेत्रन्  तथाद्- ज्ञानञ्  ,

 ज्ञेयञ्  चोक्-क्तम्   समासतः ।

मद्- भक्त एतद्-द्विद्-ज्ञाय, 

मद्-भावा  योपपद्-द्यते  ॥ 18 ॥



प्रकृतिम्   पुरुषञ्  चैव, 

 विद् _ध्य _नादी उभावपि ।

विकाराव्ँश्-श्च गुणाव्ँश्-श्चैव, 

विद्-द्धिप्  प्रकृति सम्-म्भवान्॥ 19 ॥


कार्यकरण _कर् _तृत्-त्वे, 

हेतुफ्   प्रकृति _रुच्-यते ।

पुरुषस्  सुखदुःखानाम् , 

भोक् -तृत्-त्वे हेतु  रुच्-यते ॥ 20 ॥


पुरुषफ्  प्रकृतिस्-थो हि, 

भुङ्क्तेप्- प्रकृतिजान्- गुणान् l 

 कारणङ्   गुणसङ् -गोऽस्-य , 

सदसद् -द्योनि _जन्-मसु    Il 21 ll


उपद्- द्रष्-ष्टानुमन्-ता च,

 भर्ता भोक्-क्ता महेश्-श्वरः।

परमात्-त्मेति चाप्-युक्-क्तो, 

देहेऽस्-स्मिन्- पुरुषफ्   परः॥ 22 ॥


य एवव्ँ  वेत्ति पुरुषम्  , 

प्रकृतिञ्  च गुणैस्    सह।

सर्वथा वर्तमानोऽपि, 

न स भूयोऽभिजायते॥ 23 ॥


ध्यानेनात्-त्मनि पश्-यन्ति,

 केचिदात्-त्मा _नमात्-त्मना।

अन्-ये साङ्ख्येन योगेन, 

कर्मयोगेन चापरे॥ 24 ॥



अन्-येत्-त्वेव _मजानन्- तश्

श्रुत्-त्वान्-न्येब्-भ्य उपासते।

तेऽपि चाति _तरन् _ त्येव ,

 मृत्-त्युम्  श्रुति _परायणाः॥ 25 ॥


यावत्- सञ्-जायते किञ्-चित्

सत् _त्वम्  स्थावर _जङ्गमम्।

क्षेत्-रक्-क्षेत्-त्रद्-ज्ञ  संयोगात्, 

तद्-विद्-द्धि भरतर्षभ॥ 26 ॥


समम्  सर्वेषु भूतेषु , 

तिष्-ष्ठन्-तम्  परमेश्-श्वरम्।

 विनश्-यत् _स्व _विनश्-यन्- तय्ँ , 

यफ् पश्-यति स पश्-यति ॥ 27 ॥


समम्   पश्-यन्-हि  सर्वत्-त्र, 

समवस्-थितमीश्-श्वरम् ।

न हिनस् _त्यात्-त्मनात्-मानन् ,

 ततो याति परांङ्  गतिम्॥ 28 ॥



प्रकृत्- यैव च कर्माणिक्, 

क्रियमाणानि सर्वशः।

यफ् पश्- यति तथात्-त्मानम् , 

अकर्तारम् स  पश्- यति ॥ 29 ॥


यदा भूतपृथग्-भावम्

एकस्-थ _मनुपश्- यति   ।

 तत एव च विस्-तारम् , 

ब्रह्म सम्-पद्- द्यते  तदा ll 30 ll



अनादित्- त्वान् _ निर् _ गुणत्-त्वात्, 

परमात्-त्मा _यमव्-व्ययः।

 शरीरस्- थोऽपि कौन्तेय,

 न करोति   न लिप्- यते  ॥ 31 ॥


यथा सर्वगतम्   सौक् _क्ष्म्याद् , 

आकाशन् नोपलिप् - यते।

सर्वत्-त्रा _वस्-स्थितो देहे,

तथात्-त्मा  नोपलिप्- यते  ॥ 32 ॥


यथाप्- प्रकाश _ यत्-त्येकख् , 

कृत् _ स्नल्ँ  लोकमिमम्   रविः

क्षेत्- त्रङ्   क्षेत्-त्री   तथा कृत् _स्नम् , 

प्रकाशयति भारत॥ 33 ॥


क्षेत्- त्रक्- क्षेत्-त्रद्-ज्ञयो _रेवम्, 

अन्तरञ्   ज्ञानचक्-क्षुषा।

भूतप्-प्रकृतिमोक्-क्षञ् च, 

ये विदुर् _यान्-ति ते परम्॥ 34 ॥


ॐ तत्सदितिश् श्रीमद्भगवद्गीतासु

उपनिषत्सुब् ब्रह्मविद्यायाय्ँ

योगशास्त्रे श्रीकृष्णार्जुनसंवादे

 क्षेत्रक्-क्षेत्रद्-ज्ञ_विभागयोगो 

नामत्-त्रयोदशोऽध्यायः॥


     

  ll   ॐ श्रीकृष्णार्पणमस्तु.  ll





Comments

Popular posts from this blog

भक्तियोग अध्याय 12

अर्जुनविषाद योग अध्याय 1

पुरुषोत्तम योग.(अध्याय 15)