https://drive.google.com/file/d/1tzt_1mIeMjXUmF-xRAYbV90BNwryu8ZO/view?usp=drivesdk
For audio open above link
________________________________
अध्याय 8
अक्षरब्रह्म योग
ॐ श्रीपरमात्मने नमः
श्रीमद्भगवद्गीता
अथाष्टमोऽध्यायः
अर्जुन उवाच
किन् तद् _ ब्रह्म किमद्-ध्यात्-त्मङ्,
किङ् कर्म पुरुषोत्तम l
अधिभूतञ् च किम् प्रोक्-तम्
अधिदैवङ् किमुच्-यते ll 1 ll
अधियद्-ज्ञख् कथङ् कोऽत्-त्र
देहेऽस्-स्मिन्- मधुसूदन
प्रयाणकाले च कथञ्
ज्ञेयोऽसि नियतात्-त्मभिः ll 2 ll
श्रीभगवानुवाच
अक्षरम् ब्रह्म परमम्
स्वभावोऽद्-ध्यात्-त्ममुच्-यते l
भूतभावोद्-भवकरो
विसर्गख् कर्मसञ् _ज्ञितः ll 3 ll
अधिभूतङ् क्षरो भावफ् ,
पुरुषश्-श्चाधि _ दैवतम्
अधियद्ज्ञोऽहमेवात्-त्र ,
देहे देहभृताव्ँ वर ll 4 ll
अन्तकाले च मामेवस्
स्मरन् मुक्त्वा कलेवरम् l
यफ् प्रयाति स मद्- भावय्ँ ,
याति नास् _त्यत्-त्र सव्ँशयः ll 5 ll
यय्ँ यव्ँ वापिस्- स्मरन् भावन्
त्यजत्-त्यन्-तेन्ते कलेवरम् l
तन्-तमेवैति कौन्तेय
सदा तद्-भाव _भावितः ll 6 ll
तस्-मात्- सर्वेषु कालेषु
मामनुस्- स्मर युद्-ध्य च l
मय्यर्पित _मनोबुद्धिर् ,
मामेवैष्-यस्-य _सव्ँशयम् ll 7 ll
अब्-भ्यास _ योग _ युक्-तेन,
चेतसा नान्-यगामिना l
परमम् पुरुषन् दिव्-व्यय्ँ
याति पार्थानु चिन्- तयन् ll 8 ll
कविम् पुराण _मनुशासितारम्
अणोरणीयाव्ँ _समनुस्-मरेद्-द्यः l
सर्वस्-य धाता _रमचिन्त्य _रूपम्
आदित्-त्यवर्णन् तमसफ् परस्-तात्
ll9 ll
प्रयाणकाले मनसा _ चलेन
भक्-त्या युक्तो योगबलेन चैव
भ्रुवोर्मद्-ध्येप्-प्राणमावेश्-य सम्-यक् सतम् परम् पुरुषमुपैति दिव्-व्यम्
ll10 ll
यदक्-क्षरव्ँ वेदविदो वदन-ति ,
विशन-ति यद्- द्यतयो वीतरागाः l
यदिच्-छन्-तोब्-ब्रह्मचर्यञ् चरन्-ति
तत्-ते पदम् सङ्ग्रहेणप्-प्रवक्ष्ये
ll11 ll
सर्वद् द्वाराणि संयम्- य
मनो हृदि निरुद्-ध्य च l
मूर् _ध्न्या _धायात्-त्मनफ् प्राणम्
आस्-स्थितो योगधारणाम् ll 12 ll
ओमित्-त्येकाक्-क्षरम् ब्रह्मव्-
व्याहरन् मा मनुस्- स्मरन् l
यफ् प्रयातित्-त्यजन् देहम्
स याति परमाङ् गतिम् ll 13 ll
अनन्-न्यचेतास् सततयॅं
यो माम् स्मरति नित्-त्यशः l
तस्-याहम् सुलभफ् पार्थ
नित्-त्य युक्-तस्-य योगिनः ll 14 ll
मामुपेत्- त्य पुनर्जन्म
दुःखालयमशाश्-श्वतम् l
नाप्- प्नुवन्-ति महात्-त्मानस्
सव्ँसिद्-द्धिम् परमाङ् गताः ll15 ll
आब्- ब्रह्म भुवनाल्-लोकाफ्
पुनरावर्तिनोऽर्जुन l
मामुपेत्-त्य तु कौन्-तेय
पुनर्जन्म न विद्-द्यते ll16 ll
सहस्र युग पर्यन्-तम्
अहर्यद् ब्रह्मणो विदुः l
रात्-त्रिय्ँ युग सहस्रान्-तान्
तेऽहो रात्-त्र विदो जनाः ll 17 ll
अव्-व्यक्ताद् व्यक्तयस् सर्वाफ्
प्रभवन्त्य हरागमे l
रात्र्या _ गमेप्- प्रलीयन्ते ,
तत्-त्रैवाव्-व्यक्तसञ् _ज्ञके ll 18 ll
भूतग्-ग्रामस् स एवायम् ,
भूत्-त्वा भूत्-त्वाप्- प्रलीयते l
रात्र्यागमेऽवशफ् पार्थप्
प्रभवत्-य _ हरागमे ll 19 ll
परस्-स्तस्-मात् _तु भावोन्-योऽव्
व्यक्तोव्- व्यक्ताद् सनातनः l
यस् स सर्वेषु भूतेषु ,
नश्-यत्-सु न विनश्-यति ll 20 ll
अव्-व्यक्तोऽक्-क्षर इत्-युक्तस् ,
तमाहुफ् परमाङ् गतिम् l
यम् प्राप्-य न निवर्तन्ते ,
तद्-द्धाम परमम् मम ll 21 ll
पुरुषस् स परफ् पार्थ ,
भक् _त्या लब्-भ्यस् _त्वनन्-यया l
यस्-यान्-तस् _स्थानि भूतानि ,
येन सर्वमिदन् ततम् ll 22 ll
यत्-त्र कालेत्- त्वनावृत्तिम् ,
आवृत्तिञ् चैव योगिनः l
प्रयाता यान्-ति तङ् कालव्ँ
वक्ष्यामि भरतर्षभ ll 23 ll
अग्निर् _ज्योतिरहश् शुक्- लष् ,
षण्-मासा उत्तरायणम् l
तत्- त्रप् प्रयाता गच्-छन्-ति
ब्रह्मब्- ब्रह्मविदो जनाः ll 24 ll
धूमो रात्-त्रिस्-तथा कृष्णष्-
षण्- मासा दक्- क्षिणायनम् l
तत्-त्र चान्द्रमसञ् ज्योतिर् ,
योगीप्- प्राप्- य निवर्तते ll 25 ll
शुक्- ल कृष्णे गती ह्येते ,
जगतश् शाश्- श्वते मते l
एकया यात्- यना _वृत्तिम् ,
अन्-यया _वर्तते पुनः ll 26 ll
नैते सृती पार्थ जानन् ,
योगी मुह्यति कश्-चन l
तस्-मात्- सर्वेषु कालेषु ,
योगयुक्-तो भवार्जुन ll 27 ll
वेदेषु यज्ञेषु तपस् सु चैव ,
दानेषु यत्-पुण्-य _फलम् प्रदिष्-ष्टम् l
अत्-त्येति तत्- सर्वमिदव्ँ विदित्-त्वा
योगी परम् स्थानमुपैति चाद्-द्यम्
ll 28 ll
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सुब् ब्रह्मविद्यायाय्ँ
योगशास्त्रे श्रीकृष्णार्जुन संवादे
अक्षरब्-ब्रह्मयोगोनाम अष्टमोऽध्यायः ll
ll ॐ श्रीकृष्णार्पणमस्तु ll
_______________________________
Comments
Post a Comment